Kalabhairabha Ashtakam

 Kālabhairavāṣṭakam Stotram 

(शिवरहस्यान्तर्गते महादेवाख्ये) - 

शिवपार्वतीसंवादे - ईश्वर उवाच । 

देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् । नारदादियोगिवृन्दवन्दितं दिगम्बरं काशिकापुराधिनाथकालभैरवं भजे । १ ॥ ५३॥ 

भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं नितान्तभक्तवत्सलं समस्तलोकपालकम् । निक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथकालभैरवं भजे । २ ॥ ५४॥ 

भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठनीप्सितार्थदायकं त्रिलोचनम् । कालकालमम्बुजाक्षकन्धराहरं शिवं काशिकापुराधिनाथकालभैरवं भजे । ३ ॥ ५५॥ 

शूलटङ्कपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम् । भीमवक्रिमभ्रुवं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे । ४ ॥ ५६॥

रत्नपादुकाप्रभाविरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरञ्जनम् । मृत्युदर्पनाशनं करालं दंष्ट्रभीषणं काशिकापुराधिनाथकालभैरवं भजे । ५ ॥ ५७॥ 

धर्मसेतुपालनमधर्ममार्गनाशनं कर्मपाशमोचनं सुकर्मदायकं प्रभुम् । सुवर्णवर्णकेशपाशशोभिताङ्गनिर्मलं काशिकापुराधिनाथकालभैरवं भजे । ६ ॥ ५८॥ 

अट्टहासभिन्नपद्द्मजाण्डकोटिसन्ततिं दृष्टिपातनष्टपापजालमुग्रशासनम् । अष्टसिद्धिदायकं कपालमालिकाधरं काशिकापुराधिनाथकालभैरवं भजे । ७ ॥ ५९॥ 

भूतसङ्घनायकं विशालकीर्तिदायकं काशिवासकोकपुण्यपापशोधनप्रभुम् । नीतिमार्गकोविदं पुरातनं जगत्प्रभुं काशिकापुराधिनाथकालभैरवं भजे । ८ ॥ ६०॥ 

कालभैरवाष्टकं पठन्ति ये मनोहरं ज्ञानमुक्तिसाधनं पवित्रपुण्यवर्धनम् । शोकमोहदैन्यलोभकोपतापनाशनं ते प्रयान्ति कालभैरवादि सेवितं प्रभुं हरम् ॥ ६१॥ ॥ 


इति शिवरहस्यान्तर्गते कालभैरवाष्टकं सम्पूर्णम् ॥

Name :- Mahiṣāsuramardinī Kavaca from Viśvasāra Tantra 

Category :- Durga, Parvati, Mahishamardini,

Location :- Stotras and Mantras 

Sublocation : Durga 

Indexextra :-  

Last updated :- 27/12/2024

Proof checked by : Ayantik Basu 


Comments

Popular posts from this blog

Durga Krama : A Short Description

Who is the main deity of Durga Kula? Is it Ashtabhuja Durgambika or Chaturbhuja Jagadhatri?

Oḍiyāna Mahāpīṭha