Shitala Stotram
Śītalā Stotra (Mānas Khaṇḍa Skanda Purāṇa)
शीतलास्तोत्र (स्कन्दपुराणे मानसखण्डे)
व्यास उवाच-
नमामि शीतलां देवीं शैलपर्वतवासिनीम् ।
केयूरहारवलितां शोभितां चन्द्रशेखराम् ॥१॥
पीनस्तनीं सुशोभाढ्यां नागहारां लसन्मुखीम् ।
सुवासां चीरवसनां रासभस्थां दिगम्बराम् ॥२॥
महेन्द्रेण समाहूतां पूजितां परमेश्वरीम् ।
कालदण्डोपमां घोरां धन्वन्तरिनिषेविताम् ॥३॥
शीतलेति च यो ब्रुते नानारोगप्रपीडितः ।
विस्फोटकादिरोगाणां भयं तस्य न जायते ॥४
॥ इति स्कन्दपुराणे मानसखण्डे अष्टनवतितमोऽध्याये शीतलास्तोत्रं समाप्तम् ॥
Name :- Śītalā Stotra from Skanda Purāṇa Mānasa Māhātmya Khaṇḍa
Category :- Shitala,
Location :- Stotras and Mantras
Sublocation : Shitala
Indexextra :-
Last updated :- 09/01/2025
Comments
Post a Comment