Kalika Stotra (Jalandhara Mahatmya)
Kālikā Stotra from Jalandhara Māhātmya Khaṇḍa
॥ जलन्धरमाहात्म्यखण्डे कालिकास्तोत्रम् ॥
कालिकां रामजयदां प्रणमामि शिवप्रियाम् ।
मुण्डमालान्वितां मुण्डहस्तां खड्गसमन्विताम् ॥ १॥
महाकालप्रियां कालीं तां नमामि अखण्डिताम् ।
शवारूढां जगद्वन्द्यां शुम्भाद्यासुरघातिकाम् ॥ २॥
वराभयकरां भव्यां कालिकां प्रणमाम्यहम्।
दक्षादिशक्तिभिर्युक्तां भक्तेच्छासाधनोद्यताम् ॥ ३॥
मेघाभां मेघवचनां महाकालीं नमाम्यहम्।
केतकीकुसुमाराध्यां माधवेन समर्चिताम्॥ ४॥
कालिकां रामजयदां प्रणमामि शिवप्रियाम्।
द्रुहिणादिशिरोरत्नैः निराञ्जनपदाम्बुजाम् ॥ ५॥
जगन्मान्यां जगत्कान्तां कालिकां प्रणमाम्यहम्।
सृष्टिसञ्जनकासर्वकालिकां कलुषोभिताम् ॥६॥
स्वर्गापवर्गजनिकां कालिकां प्रणमाम्यहम् ।
यन्माथायंकरीं जन्मापायाहिनां जन्मेय ॥ ७॥
ज्योतिरूपां महामायां कालिकां प्रणमाम्यहम् ।
कालिके मम दीनस्य समुद्धारं यथाविधि:॥ ८॥
विधेहि भक्तिसञ्जस्य समुद्धारस्य कालिके।
यथाकृत्वा तमन्नाथ तथा भवति सत्वरम् ॥९॥
तथा कुरु जगद्वन्द्ये भक्तायोत्परिहारिके ॥ १०॥
॥ इति पद्मपुराणे जलन्धरमाहात्म्यखण्डे कालिकास्तोत्रं समाप्तम् ॥
Name :- Kālikā Stotra from Jalandhara Māhātmya
Category :- Kali, Dasamahavidya
Location :- Stotras and Mantras
Sublocation : Kali
Indexextra :- (scan)
Last updated :- 25/1/2025
Comments
Post a Comment