Vipattarini Puja

 Vipattarini Puja 

( Worship of Goddess Vipattāriṇī) 

Introduction:- 

ŚRĪŚRĪ VIPATTĀRIṆĪ JAYADURGĀ PŪJĀ 

On the day of Āṣāḍha Śukla Navamī, Goddess Jayadurgā or Vipattāriṇī is worshipped. By killing Mahiṣāsuramardinī, Goddess Jayā named Durgā saved Devatās from their Vipadas or troubles. So, she was named as Vipattāriṇī or Vipadanāśinī. Jaganmaṅgala Tantra describes her Pūjā. 



Here is the description of her Pūjā below:- 

At first, the Ghata should be established by pouring 5 grains, holy Gaṅgā water, akṣata into a Kalaśa and it should be covered by Betel leaf, banana, and red cloth. 13 hibiscuses, 13 kinds of fruits, 13 puris , 13 bilva leaves, scented oil, incense sticks, oil lamp, holy water, clothes for Devī, madhuparka items (milk, curd etc), jewelries for Devī , idol or image of Goddess Vipattāriṇī, Alakta, Yajñopavīta, Sindūra, small mirror, Kājala(lamp ink), betel leaf and necessary flowers, should be gathered near Pūjārī. 

Gaṇeśa Pūjā (गणेश पूजा):- 

ॐ खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं प्रस्यन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम्। 

दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभाकरम्।वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम्।। 

श्री गणपतये नमः।। 

After offering flowers to Gaṇeśa, one should chant the Dhyāna of Goddess Vipattāriṇī. 

Jayadurgā Dhyāna ( ध्यान ) :- 

कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां

     शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।

सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं

     ध्यायेद् दुर्गा जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥

Or, 

करालवदनां घोरां नानालङ्कारभूषिताम्। मुकुटाग्र-लसच्चन्द्रलेखां दिग्वसनान्विताम् ।। खड़ग-खर्परयुक्ताञ्च मुण्डचर्मवरान्विताम्। मुक्ताहारलताराजत्-पीनोन्नतघटस्तनीम् ।। 

Thereafter, one should chant Āvāhana mantra to call her. 

Āvāhana (आवाहन) :- 

श्रीदुर्गादिरूपेण विश्वमावृत्य तिष्ठति ।

आवाहयामि त्वां देवि सम्यक् सन्निहिता भव ॥ 

श्री जयदुर्गायै नमः। आवहयामि आवाहनं समर्पयामि ।। 


Āsana 

भद्रकालि नमस्तेऽस्तु भक्तानामीप्सितार्थदे ।

स्वर्णसिंहासनं चारु प्रीत्यर्थं प्रतिगृह्यताम् ॥


श्री जयदुर्गायै नमः । आसनं समर्पयामि ॥


Svāgata 

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।

कृताञ्जलिपुटो भक्त्या स्वागतं कल्पयाम्यहम् ॥


श्री जयदुर्गायै नमः । स्वागतं समर्पयामि ॥


Pādya 

पाद्यं गृहान देवेशि सर्वदुःखपहारकम्। त्रयस्व वरदे देवि नमस्ते भगवत्प्रिये ।। 


श्री जयदुर्गायै नमः। पाद्यं समर्पयामि ।। 

Chanting this, one should offer water on the ghata. 

Arghya 


पवित्रं शङ्खपात्रस्थं दुर्वापुष्पाक्षतान्वितम् । स्वर्गमन्दाकिनीतोमर्घ्यं चण्डि गृहाण मे।। 


श्री जयदुर्गायै नमः। अर्घ्यं समर्पयामि ।। 


Ācamana 


मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्। गृहाणाचमीयं त्वं मया भक्त्या प्रगृह्यताम् ।। 


श्री जयदुर्गायै नमः। आचमनं समर्पयामि।।


Madhuparka 

दूर्वाङ्कुरसमायुक्तं गन्धादिसुमनोहरम् ।

मधुपर्कं मया दत्तं नारायणि नमोऽस्तु ते ॥


श्री जयदुर्गायै नमः । मधुपर्कं समर्पयामि ॥ 

By chanting this, one should offer Madhuparka towards Pārvatī. 

Punarācamana 


मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्। गृहाणाचमीयं त्वं मया भक्त्या प्रगृह्यताम् ।। 


श्री जयदुर्गायै नमः। पुनराचमनीयं समर्पयामि ।। 


Gandhataila 


स्नेहं गृहाण स्नेहेन लोकानां हितकारिणी । सर्वलोकेषु शुद्धा त्वं ददामि स्नेहमुत्तमम्।। 


श्री जयदुर्गायै नमः। स्नेहतैलं समर्पयामि ।। 


śuddhodaka snāna

जलञ्च शीतलं स्वच्छं नित्यं शुद्धं मनोहरम् । स्नानार्थं ते प्रयच्छामि सुरेश्वरी गृहाण मे ।।


श्री जयदुर्गायै नमः । शुद्धोदकस्नानं समर्पयामि ॥


Vastra 


वस्त्रं गृहाण देवेशि देवाङ्गसदृशं नवम् ।

विश्वेश्वरि महामाये नारायणि नमोऽस्तु ते ॥


श्री जयदुर्गायै नमः । रत्नदुकूलवस्त्रं समर्पयामि ॥


Yajñopavīta 


नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवातामयम् । उपवीतं मया दत्तं गृहाण परमेश्वरि ।। 

श्री जयदुर्गायै नमः। उपवीतं समर्पयामि।। 


Ratna Bhūṣaṇa 


अमूल्यरत्नसारैश्च खचितं चेश्वरेच्छया। सर्वाङ्गशोभनकरं भूषणं देवि गृह्यताम् ।। 


श्री जयदुर्गायै नमः। रत्नभूषणं समर्पयामि ।।

Sindūra 


रञ्जनं सर्वलोकानां प्रियापरमया युतम्। 

सिन्दूरतिलकं तेऽस्तु ललाटतटमण्डनम् ।।


श्री जयदुर्गायै नमः। सिन्दूरं समर्पयामि।।


Alakta (Lākṣa rasa) 


आलक्तः पादरञ्जकः कामिनीकामसम्भवः। अलक्तेर्नाचिते देवि प्रसीद परमेश्वरी।। 


श्री जयदुर्गायै नमः। आलक्तं समर्पयामि।। 


Darpana 


दर्पनं विमलं रम्यं शुद्धविम्बप्रदायकम्। आत्मबिम्बरदर्शार्थंपयामि स्वाहा ।। 


श्री जयदुर्गायै नमः। दर्पनं समर्पयामि।। 


Netrāñjana 


नमस्ते सर्वदेवेशि नमस्ते शंकरप्रिये। चक्षुषामञ्जनं हृद्यं देवी दत्त प्रगृह्यताम्।। 


श्री जयदुर्गायै नमः। नेत्राञ्जनं समर्पयामि।। 


Gandha 


गन्धं चन्दनसंयुक्तं कुङ्कुमादिविमिश्रितम् ।

गृह्णीष्व देवि लोकेशि जगन्मातर्नमोऽस्तु ते ॥


श्री जयदुर्गायै नमः । गन्धं समर्पयामि ॥ 


Puṣpa 


मालतीबिल्वमन्दारकुन्दजातिविमिश्रितम् ।

पुष्पं गृहाण देवेशि सर्वमङ्गलदा भव ॥


शिवपत्नि शिवे देवि शिवभक्तभयापहे ।

द्रोणपुष्पं मया दत्तं गृहाण शिवदा भव ॥


श्री जयदुर्गायै नमः । नानाविध परिमळ पत्रपुष्पाणि समर्पयामि ॥


Bilvapatra 


श्रीवृक्षममृतोद्भूतं महादेवी प्रियं सदा ।

बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरी ॥


श्री जयदुर्गायै नमः । बिल्वपत्रं समर्पयामि ॥


Dhūpa 


सगुग्गुल्वगरूशीरगन्धादिसुमनोहरम् ।

धूपं गृहाण देवेशि दुर्गे देवि नमोऽस्तु ते ॥


श्री जयदुर्गायै नमः । धूपमाघ्रापयामि ॥ 


Dīpa 


पट्टसूत्रोल्लसद्वर्ति गोघृतेन समन्वितम् ।

दीपं ज्ञानप्रदं देवि गृहाण परमेश्वरी ॥


श्री जयदुर्गायै नमः । दीपं दर्शयामि ॥


Naivedya 


जुषाण देवि नैवेद्यं नानाभक्ष्यैः समन्वितम् ।

परमान्नं मया दत्तं सर्वाभीष्टं प्रयच्छ मे ॥


श्री जयदुर्गायै नमः । महानैवेद्यं समर्पयामि ॥


Pānīya 


गङ्गादिसलिलोद्भूतं पानीयं पावनं शुभम् ।

स्वादूदकं मया दत्तं गृहाण परमेश्वरी ॥


श्री जयदुर्गायै नमः । अमृतपानीयं समर्पयामि ॥


Punarācamana 


कामारिवल्लभे देवि कुर्वार्चनमम्बिके । निरन्तरहं वन्दे चरणो तव शंकरी ।। 


श्री जयदुर्गायै नमः। पुनराचमनं समर्पयामि।। 


Tāmbula 


पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।

कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥


श्री जयदुर्गायै नमः । ताम्बूलं समर्पयामि ॥

Gāyatrī 

ॐ नारायण्यै बिद्महे चण्डिकायै धीमहि तन्नोश्चण्डी प्रचोदयात्।। 


Pañca Puṣpa Añjalī 

ॐ एष सचन्दन पुष्पबिल्वपत्राञ्जलिः नीलकण्ठशिवसहितः श्री जयदुर्गायै नमः।।

Nīlakaṇṭha Śiva Dhyāna 

बालार्क-युत तेजसं धृत जटा जुटेन्दु खण्डोज्ज्वलं, 

नागेन्द्रैः कृतशेखरं जपवटीं शूलंकपालंकरैः ॥ 

खट्वाङ्गः  दधतं त्रिनेत्र विलसत् पञ्चाननं सुन्दरं 

 व्याघ्रत्वकपरिधानमब्ज निलयं श्रीनीलकण्ठं भजे ॥

श्री नीलकण्ठशिवाय नमः।। 


Jayadurgā Stotra 


 जयदुर्गास्तोत्रम् 


विनियोगः -

ॐ अस्य श्रीजयदुर्गा महामन्त्रस्य, मार्कण्डयो मुनिः, बृहती

छन्दः, श्रीजयदुर्गा देवता, प्रणवो बीजं, स्वाहा शक्तिः ।

श्रीदुर्गा प्रसादसिद्ध्यर्थे जपे विनियोगः ।



ब्रह्मो उवाच -

दुर्गे शिवेऽभये माये नारायणि सनातनि ।

जये मे मङ्गलं देहि नमस्ते सर्वमङ्गले ॥ १॥


दैत्यनाशार्थवचनो दकारः परिकीर्तितः ।

उकारो विघ्ननाशार्थवाचको वेदसम्मतः ॥ २॥


रेफो रोगघ्नवचनो गश्च पापघ्नवाचकः ।

भयशत्रुघ्नवचनश्चाकारः परिकीर्तितः ॥ ३॥


स्मृत्युक्तिस्मरणाद्यस्या एते नश्यन्ति निश्चितम् ।

अतो दुर्गा हरेः शक्तिर्हरिणा परिकीर्तिता ॥ ४॥


विपत्तिवाचको दुर्गश्चाकारो नाशवाचकः ।

दुर्गं नश्यति या नित्यं सा दुर्गा परिकीर्तिता ॥ ५॥


दुर्गो दैत्येन्द्रवचनोऽप्याकारो नाशवाचकः ।

तं ननाश पुरा तेन बुधैर्दुर्गा प्रकीर्तिता ॥ ६॥


शश्च कल्याणवचन इकारोत्कृष्टवाचकः ।

समूहवाचकश्चैव वाकारो दातृवाचकः ॥ ७॥


श्रेयःसङ्घोत्कृष्टदात्री शिवा तेन प्रकीर्तिता ।

शिवराशिर्मूर्तिमती शिवा तेन प्रकीर्तिता ॥ ८॥


शिवो हि मोक्षवचनश्चाकारो दातृवाचकः ।

स्वयं निर्वाणदात्री या सा शिवा परिकीर्तिता ॥ ९॥


अभयो भयनाशोक्तश्चाकारो दातृवाचकः ।

प्रददात्यभयं सद्यः साऽभया परिकीर्तिता ॥ १०॥


राजश्रीवचनो माश्च याश्च प्रापणवाचकः ।

तां प्रापयति या सद्यः सा माया परिकीर्तिता ॥ ११॥


माश्च मोक्षार्थवचनो याश्च प्रापणवाचकः ।

तं प्रापयति या नित्यं सा माया परिकीर्तिता ॥ १२॥


नारायाणार्धाङ्गभूता तेन तुल्या च तेजसा ।

तदा तस्य शरीरस्था तेन नारायणी स्मृता ॥ १३॥


निर्गुणस्य च नित्यस्य वाचकश्च सनातनः ।

सदा नित्या निर्गुणा य कीर्तिता सा सनातनी ॥ १४॥


जयः कल्याणवचनो ह्याकारो दातृवाचकः ।

जयं ददाति या नित्यं सा जया परिकीर्तिता ॥ १५॥


सर्वमङ्गलशब्दश्च सम्पूर्णैश्वर्यवाचकः ।

आकारो दातृवचनस्तद्दात्री सर्वमङ्गला ॥ १६॥


नामाष्टकमिदं सारं नामार्थसहसंयुतम् ।

नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे ॥ १७॥


तस्मै दत्वा निद्रितश्च बभूव जगतां पतिः ।

मधुकैटभौ दुर्गान्तौ ब्रह्माणं हन्तुमुद्यतौ ॥ १८॥


स्तोत्रेणानेन स ब्रह्मा स्तुतिं नत्वा चकार ह ।

साक्षात्स्तुता तदा दुर्गा ब्रह्मणे कवचं ददौ ॥ १९॥


श्रीकृष्णकवचं दिव्यं सर्वरक्षणनामकम् ।

दत्त्वा तस्मै महामाया साऽन्तर्धानं चकार ह ॥ २०॥


स्तोत्रं कुर्वन्ति निद्रां च संरक्ष्य कवचेन वै ।

निद्रानुग्रहतः सद्यः स्तोत्रस्यैव प्रभावतः ॥ २१॥


तत्राजगाम भगवान्वृषरूपी जनार्दनः ।

शक्त्या च दुर्गया सार्धं शङ्करस्य जयाय च ॥ २२॥


सरथं शङ्करं मूर्ध्नि कृत्वा च निर्भयं ददौ ।

अत्यूर्ध्वं प्रापयामास जया तस्मै जयं ददौ ॥ २३॥


स्तोत्रस्यैव प्रभावेण संप्राप्य कवचं विधिः ।

वरं च कवचं प्राप्य निर्भयं प्राप निश्चितम् ॥ २४॥


ब्रह्मा ददौ महेशाय स्तोत्रं च कवचं वरम् ।

त्रिपुरस्य च सङ्ग्रामे सरथे पतिते हरौ ॥ २५॥


ब्रह्मास्त्रं च गृहीत्वा स सनिद्रं श्रीहरिं स्मरन् ।

स्तोत्रं च कवचं प्राप्य जघान त्रिपुरं हरः ॥ २६॥


स्तोत्रेणानेन तां दुर्गां कृत्वा गोपालिका स्तुतिम् ।

लेभिरे श्रीहरिं कान्तं स्तोत्रस्यास्य प्रभावतः ॥ २७॥


गोपकन्या कृतं स्तोत्रं सर्वमङ्गलनामकम् ।

वाञ्छितार्थप्रदं सद्यः सर्वविघ्नविनाशनम् ॥ २८॥


त्रिसन्ध्यं यः पठेन्नित्यं भक्तियुक्तश्च मानवः ।

शैवो वा वैष्णवो वाऽपि शाक्तो दुर्गात्प्रमुच्यते ॥ २९॥


राजद्वारे श्मशाने च दावाग्नौ प्राणसङ्कटे ।

हिंस्रजन्तुभयग्रस्तो मग्नः पोते महार्णवे ॥ ३०॥


शत्रुग्रस्ते च सङ्ग्रामे कारागारे विपद्गते ।

गुरुशापे ब्रह्मशापे बन्धुभेदे च दुस्तरे ॥ ३१॥


स्थानभ्रष्टे धनभ्रष्टे जातिभ्रष्टे शुचाऽन्विते ।

पतिभेदे पुत्रभेदे खलसर्पविषान्विते ॥ ३२॥


स्तोत्रस्मरणमात्रेण सद्यो मुच्येत निर्भयः ।

वाञ्छितं लभते सद्यः सर्वैश्वर्यमनुत्तमम् ॥ ३३॥


इह लोके हरेर्भक्तिं दृढां च सततं स्मृतिम् ।

अन्ते दास्यं च लभते पार्वत्याश्च प्रसादतः ॥ ३४॥


अनेन स्तवराजेन तुष्तुवुर्नित्यमीश्वरम् ।

प्रणेमुः परया भक्त्या यावन्मासं व्रजाङ्गनाः ॥ ३५॥


इति श्रीब्रह्मवैवर्ते ब्रह्मकृतं जयदुर्गास्तोत्रं सम्पूर्णम् ।


Kṣamā Prārthana 


गुह्यातिगुह्यगोपत्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि तत्प्रसादात् सुरेश्वरि।।


Thank you.

Comments

  1. Thank you for sharing this detail. Your post is very informative. Can you please write on the Bipod Tarini Chandi Bari in Kolkata? The Maa Bipod Tarini worshipped there has a different iconography. Is she the same Jaya Durga which you've mentioned or a different form of the mother Goddess?
    Can we worship Bipod Tarini and Jaya Durga using Dakshin Achara?
    Do you any places where Dakshin Achar diksha of Goddess Jaya Durga or any other calm form of Maa Durga is given?

    Thank you again.
    Jai Maa Durga

    ReplyDelete
    Replies
    1. Yes, Non Dīkṣītas can worship Jayadurgā (only through Pañca Upacāras). We'll post about that place.

      Delete

Post a Comment

Popular posts from this blog

Oḍiyāna Mahāpīṭha

Durga Krama : A Short Description

Who is the main deity of Durga Kula? Is it Ashtabhuja Durgambika or Chaturbhuja Jagadhatri?